Sukta 1.161
चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन् । यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे ॥
च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् । य॒दावाख्य॑च्चम॒साञ्च॒तुर॑: कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या॑नजे ॥
cakṛvā́ṃsa ṛ́bhavas tád apṛcchata kvéd abhūd yáḥ syá dūtó na ā́jagan | yadā́vākhyac camasā́ṃś catúraḥ kṛtā́nād íd tvaṣṭā́ gnā́sv antár nyā́naje ||
Having accomplished it, the Rbhus asked: ‘Where indeed is he who was to be our messenger and came to us?’ When he showed the four cups made, then Tvaṣṭṛ withdrew and hid himself within the women (the forms of nature).
च॒कृ॒ऽवांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । क्व॑ । इत् । अ॒भू॒त् । यः । स्यः । दू॒तः । नः॒ । आ । अज॑गन् । य॒दा । अ॒व॒ऽअख्य॑त् । च॒म॒सान् । च॒तुरः॑ । कृ॒तान् । आत् । इत् । त्वष्टा॑ । ग्नासु॑ । अ॒न्तः । नि । आ॒न॒जे॒ ॥चकृवांसः । ऋभवः । तत् । अपृच्छत । क्व । इत् । अभूत् । यः । स्यः । दूतः । नः । आ । अजगन् । यदा । अवअख्यत् । चमसान् । चतुरः । कृतान् । आत् । इत् । त्वष्टा । ग्नासु । अन्तः । नि । आनजे ॥cakṛ-vāṃsaḥ | ṛbhavaḥ | tat | apṛcchata | kva | it | abhūt | yaḥ | syaḥ | dūtaḥ | naḥ | ā | ajagan | yadā | ava-akhyat | camasān | caturaḥ | kṛtān | āt | it | tvaṣṭā | gnāsu | antaḥ | ni | ānaje