Sukta 1.161
अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः । धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि ॥
अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्व॒: कर्त्वो॒ रथ॑ उ॒तेह कर्त्व॑: । धे॒नुः कर्त्वा॑ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ॥
agníṃ dūtáṃ práti yád abravītana áśvaḥ kártvā rátha utéhá kártvāḥ | dhenúḥ kártvā yuvaśā́ kártvā dvā́ tā́ni bhrātar ánu vaḥ kṛtvī́ ā́ imasi ||
When you spoke in response to Agni the messenger: ‘A horse is to be made, a chariot too is to be made here; a cow is to be made, and the two youth (powers) are to be made.’ Those works, O brothers, we pursue after you, having fashioned (our will) toward them we enter upon them.
अ॒ग्निम् । दू॒तम् । प्रति॑ । यत् । अब्र॑वीतन । अश्वः॑ । कर्त्वः॑ । रथः॑ । उ॒त । इ॒ह । कर्त्वः॑ । धे॒नुः । कर्त्वा॑ । यु॒व॒शा । कर्त्वा॑ । द्वा । तानि॑ । भ्रा॒तः॒ । अनु॑ । वः॒ । कृ॒त्वी । आ । इ॒म॒सि॒ ॥अग्निम् । दूतम् । प्रति । यत् । अब्रवीतन । अश्वः । कर्त्वः । रथः । उत । इह । कर्त्वः । धेनुः । कर्त्वा । युवशा । कर्त्वा । द्वा । तानि । भ्रातः । अनु । वः । कृत्वी । आ । इमसि ॥agnim | dūtam | prati | yat | abravītana | aśvaḥ | kartvaḥ | rathaḥ | uta | iha | kartvaḥ | dhenuḥ | kartvā | yuvaśā | kartvā | dvā | tāni | bhrātaḥ | anu | vaḥ | kṛtvī | ā | imasi