Sukta 1.161
एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् । सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥
एकं॑ चम॒सं च॒तुर॑: कृणोतन॒ तद्वो॑ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम् । सौध॑न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया॑सो भविष्यथ ॥
ékaṃ camasáṃ catúraḥ kṛṇotana tád vo devā́ abruvan tád va ā́gamam | sáudhanvanā yád yévā kariṣyátha sā́kaṃ deváir yajñíyāso bhaviṣyatha ||
Make the one cup into four—so the gods spoke to you, and so has it come to you. O sons of Sudhanvan, if you accomplish this, you will become worthy of the sacrifice together with the gods.
एक॑म् । च॒म॒सम् । च॒तुरः॑ । कृ॒णो॒त॒न॒ । तत् । वः॒ । दे॒वाः । अ॒ब्रु॒व॒न् । तत् । वः॒ । आ । अ॒ग॒म॒म् । सौध॑न्वनाः । यदि॑ । ए॒व । क॒रि॒ष्यथ॑ । सा॒कम् । दे॒वैः । य॒ज्ञिया॑सः । भ॒वि॒ष्य॒थ॒ ॥एकम् । चमसम् । चतुरः । कृणोतन । तत् । वः । देवाः । अब्रुवन् । तत् । वः । आ । अगमम् । सौधन्वनाः । यदि । एव । करिष्यथ । साकम् । देवैः । यज्ञियासः । भविष्यथ ॥ekam | camasam | caturaḥ | kṛṇotana | tat | vaḥ | devāḥ | abruvan | tat | vaḥ | ā | agamam | saudhanvanāḥ | yadi | eva | kariṣyatha | sākam | devaiḥ | yajñiyāsaḥ | bhavi ṣyatha