Sukta 1.161
किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम । न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥
किमु॒ श्रेष्ठ॒: किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी॑यते दू॒त्यं१॒॑ कद्यदू॑चि॒म । न नि॑न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने॑ भ्रात॒र्द्रुण॒ इद्भू॒तिमू॑दिम ॥
kím u śréṣṭhaḥ kím yáviṣṭho na ā́jagan kím ī́yate dūtyáṃ kádyad ūcim | ná nindima camasáṃ yó mahākuló ’gne bhrātar druṇá id bhūtím ūdima ||
What indeed has come to us as the best, what as the youngest? What mission is moving, and what have we spoken? We do not blame the cup: O Agni, brother, the great-natured one—(from) the wooden vessel itself we seek the increase of being.
किम् । ऊँ॒ इति॑ । श्रेष्ठः॑ । किम् । यवि॑ष्ठः । नः॒ । आ । अ॒ज॒ग॒न् । किम् । ई॒य॒ते॒ । दू॒त्य॑म् । कत् । यत् । ऊ॒चि॒म । न । नि॒न्दि॒म॒ । च॒म॒सम् । यः । म॒हा॒ऽकु॒लः । अ॒ग्ने॒ । भ्रा॒तः॒ । द्रुणः॑ । इत् । भू॒तिम् । ऊ॒दि॒म॒ ॥किम् । ऊँ इति । श्रेष्ठः । किम् । यविष्ठः । नः । आ । अजगन् । किम् । ईयते । दूत्यम् । कत् । यत् । ऊचिम । न । निन्दिम । चमसम् । यः । महाकुलः । अग्ने । भ्रातः । द्रुणः । इत् । भूतिम् । ऊदिम ॥kim | ūām iti | śreṣṭhaḥ | kim | yaviṣṭhaḥ | naḥ | ā | ajagan | kim | īyate | dūtyam | kat | yat | ūc ima | na | nindima | camasam | yaḥ | mahākulaḥ | agne | bhrātaḥ | druṇaḥ | it | bhūtim | ūdima