Sukta 1.161
सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत् । श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत ॥
सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो॑ह्य॒ क इ॒दं नो॑ अबूबुधत् । श्वानं॑ ब॒स्तो बो॑धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ॥
suṣu-pvā́ṃsa ṛ́bhavas tád apṛcchatāgóhya ká idáṃ no abū́budhat | śvā́naṃ bastó bodhayitā́ram abravīt saṃvatsará idám adyā́ vyàkhyat ||
The Rbhus, fallen into deep sleep, asked: “O Hidden One, who has awakened this for us?” Basta spoke of the dog as the awakener; but it was the Year that today disclosed it—Time itself opening the knowledge at its ripened hour.
सु॒षु॒प्वांसः॑ । ऋ॒भ॒वः॒ । तत् । अ॒पृ॒च्छ॒त॒ । अगो॑ह्य । कः । इ॒दम् । नः॒ । अ॒बू॒बु॒ध॒त् । श्वान॑म् । ब॒स्तः । बो॒ध॒यि॒तार॑म् । अ॒ब्र॒वी॒त् । स॒व्ँम्व॒त्स॒रे । इ॒दम् । अ॒द्य । वि । अ॒ख्य॒त॒ ॥सुषुप्वांसः । ऋभवः । तत् । अपृच्छत । अगोह्य । कः । इदम् । नः । अबूबुधत् । श्वानम् । बस्तः । बोधयितारम् । अब्रवीत् । सव्ँम्वत्सरे । इदम् । अद्य । वि । अख्यत ॥suṣupvāṃsaḥ | ṛbhavaḥ | tat | apṛcchata | agohya | kaḥ | idam | naḥ | abūbudhat | śvānam | bastaḥ | bodhayitāram | abravīt | saṃvatsare | idam | adya | vi | akhyata