Sukta 1.161
सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः । अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन ॥
स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा॑ व आसतुः । अश॑पत॒ यः क॒रस्नं॑ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा॑ अब्रवीतन ॥
sam-mī́lya yád bhúvanā pár yásarpata kvà svit tā́tyā pitarā va āsatuḥ | áśapata yáḥ karásnaṃ va ādáde yáḥ prábravīt pró tásmā abravītana ||
When, closing (yourselves), you moved around the worlds—where indeed then were your two Parents? You cursed the one who took away your ‘karasna’; but to him who spoke the forward word “pro!”, to that one you responded—affirming the impulse that carries the work onward.
स॒म्ऽमील्य॑ । यत् । भुव॑ना । प॒रि॒ऽअस॑र्पत । क्व॑ । स्वि॒त् । तात्या । पि॒तरा॑ । वः॒ । आ॒स॒तुः॒ । अश॑पत । यः । क॒रस्न॑म् । वः॒ । आ॒ऽद॒दे । यः । प्र । अब्र॑वीत् । प्रो इति॑ । तस्मै॑ । अ॒ब्र॒वी॒त॒न॒ ॥सम्मील्य । यत् । भुवना । परिअसर्पत । क्व । स्वित् । तात्या । पितरा । वः । आसतुः । अशपत । यः । करस्नम् । वः । आददे । यः । प्र । अब्रवीत् । प्रो इति । तस्मै । अब्रवीतन ॥sam-mīlya | yat | bhuvanā | pari-asarpata | kva | svit | tātyā | pitarā | vaḥ | āsatuḥ | aśapata | yaḥ | karasnam | vaḥ | ādade | yaḥ | pra | abravīt | pro iti | tasmai | abravītana