Sukta 1.161
दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति । अद्भिर्याति वरुणः समुद्रैर्युष्माँ इच्छन्तः शवसो नपातः ॥
दि॒वा या॑न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो॑ अ॒न्तरि॑क्षेण याति । अ॒द्भिर्या॑ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्त॑: शवसो नपातः ॥
divā́ yānti marúto bhū́myā agnír ayáṃ vātó antárikṣeṇa yāti | adbhír yāti váruṇaḥ samudráir yuṣmā́n ícchantaḥ śávasaḥ napātaḥ ||
By day the Maruts go; by earth goes Agni; this Wind goes through the mid-space. By the waters, by the oceans goes Varuna—seeking you, O children of Power: all the cosmic energies converge upon the perfected workers.
दि॒वा । या॒न्ति॒ । म॒रुतः॑ । भूम्या॑ । अ॒ग्निः । अ॒यम् । वातः॑ । अ॒न्तरि॑क्षेण । या॒ति॒ । अ॒त्ऽभिः । या॒ति॒ । वरु॑णः । स॒मु॒द्रैः । यु॒ष्मान् । इ॒च्छन्तः॑ । श॒व॒सः॒ । न॒पा॒तः॒ ॥दिवा । यान्ति । मरुतः । भूम्या । अग्निः । अयम् । वातः । अन्तरिक्षेण । याति । अत्भिः । याति । वरुणः । समुद्रैः । युष्मान् । इच्छन्तः । शवसः । नपातः ॥divā | yānti | marutaḥ | bhūmyā | agniḥ | ayam | vātaḥ | antarikṣeṇa | yāti | at-bhiḥ | yāti | varuṇaḥ | samudraiḥ | yuṣmān | icchantaḥ | śavasaḥ | napātaḥ