Sukta 1.161
उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः । अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ॥
उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं॑ नि॒वत्स्व॒पः स्व॑प॒स्यया॑ नरः । अगो॑ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ॥
udvát-sv asmai akṛṇotana tṛ́ṇam nivát-sv ápaḥ sv-apasyáyā naraḥ | agóhyasya yád asastana gṛhé tád adyédam ṛ́bhavo nā́nu gacchatha ||
On the higher ground you made grass for him; in the lower you made waters—O men of good workmanship. What you have set in the house of the Hidden Cow (the concealed Light), that today, O Rbhus, you do not follow up—do not abandon the continuation of the work.
उ॒द्वत्ऽसु॑ । अ॒स्मै॒ । अ॒कृ॒णो॒त॒न॒ । तृण॑म् । नि॒वत्ऽसु॑ । अ॒पः । सु॒ऽअ॒प॒स्यया॑ । न॒रः॒ । अगो॑ह्यस्य । यत् । अस॑स्तन । गृ॒हे । तत् । अ॒द्य । इ॒दम् । ऋ॒भ॒वः॒ । न । अनु॑ । ग॒च्छ॒थ॒ ॥उद्वत्सु । अस्मै । अकृणोतन । तृणम् । निवत्सु । अपः । सुअपस्यया । नरः । अगोह्यस्य । यत् । असस्तन । गृहे । तत् । अद्य । इदम् । ऋभवः । न । अनु । गच्छथ ॥udvat-su | asmai | akṛṇotana | tṛṇam | nivat-su | apaḥ | su-apasyayā | naraḥ | agohyasya | yat | asastana | gṛhe | tat | adya | idam | ṛbhavaḥ | na | anu | gacchatha