Sukta 1.161
श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् । आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥
श्रो॒णामेक॑ उद॒कं गामवा॑जति मां॒समेक॑: पिंशति सू॒नयाभृ॑तम् । आ नि॒म्रुच॒: शकृ॒देको॒ अपा॑भर॒त्किं स्वि॑त्पु॒त्रेभ्य॑: पि॒तरा॒ उपा॑वतुः ॥
śroṇā́m éka udakáṃ gā́m avā́jati mā́ṃsam ékaḥ piṃśati sū́nayā́bhṛtam | ā́ nimrúcaḥ śakṛ́d éko ápābharat kíṃ svit putrébhyaḥ pitarā́ úpāvatuh ||
One drives the cow toward the water; one shapes the flesh brought by the guiding hand. One carries away the dung from the dark corners. What indeed did the two Parents bring near to their sons—what help of origin stood behind these works?
श्रो॒णाम् । एकः॑ । उ॒द॒कम् । गाम् । अव॑ । अ॒ज॒ति॒ । मां॒सम् । एकः॑ । पिं॒श॒ति॒ । सू॒नया॑ । आऽभृ॑तम् । आ । नि॒ऽम्रुचः॑ । शकृ॒त् । एकः॑ । अप॑ । अ॒भ॒र॒त् । किम् । स्वि॒त् । पु॒त्रेभ्यः॑ । पि॒तरौ॑ । उप॑ । आ॒व॒तुः॒ ॥श्रोणाम् । एकः । उदकम् । गाम् । अव । अजति । मांसम् । एकः । पिंशति । सूनया । आभृतम् । आ । निम्रुचः । शकृत् । एकः । अप । अभरत् । किम् । स्वित् । पुत्रेभ्यः । पितरौ । उप । आवतुः ॥śroṇām | ekaḥ | udakam | gām | ava | ajati | māṃsam | ekaḥ | piṃśati | sūnayā | ābhṛtam | ā | ni-mrucaḥ | śakṛt | ekaḥ | apa | abharat | kim | svit | putrebhyaḥ | pitarau | upa | āvatuḥ