Sukta 1.16
विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति । वृत्रहा सोमपीतये ॥
विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा॑य गच्छति । वृ॒त्र॒हा सोम॑पीतये ॥
viśvám ít sávanam sutám índro mádāya gacchati | vṛtrahā́ sómapītaye ||
To every pressed offering-session Indra comes for the ecstasy; the slayer of Vṛtra comes to drink Soma—so the power that breaks obstruction may awaken in us through delight.
विश्व॑म् । इत् । सव॑नम् । सु॒तम् । इन्द्रः॑ । मदा॑य । ग॒च्छ॒ति॒ । वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥विश्वम् । इत् । सवनम् । सुतम् । इन्द्रः । मदाय । गच्छति । वृत्रहा । सोमपीतये ॥viśvam | it | savanam | sutam | indraḥ | madāya | gacchati | vṛtra-hā | soma-pītaye