Sukta 1.158
न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः । शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥
न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधु॑: । शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥
ná mā garann adyó mātṛ́-tamā dāsā́ yad ī́ṃ súsamubdham avā́dhuḥ | śíro yád asya traitanó ví-takṣat svayáṃ dāsá uró aṃsā́v ápi gdha ||
The rivers, most motherly, did not swallow me; when the Dāsas cast him down, well-bound in the flood. When Traitana cut away his head, then the Dāsa himself clung to the breast and shoulders.
न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ । शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ ग्ध ॥न । मा । गरन् । नद्यः । मातृतमाः । दासाः । यत् । ईम् । सुसमुब्धम् । अवअधुः । शिरः । यत् । अस्य । त्रैतनः । वितक्षत् । स्वयम् । दासः । उरः । अंसौ । अपि । ग्धेति ग्ध ॥na | mā | garan | nadyaḥ | mātṛ-tamāḥ | dāsāḥ | yat | īm | su-samubdham | ava-adhuḥ | śiraḥ | yat | asya | traitanaḥ | vi-takṣat | svayam | dāsaḥ | uraḥ | aṃsau | api | gdhetigdha