Sukta 1.158
दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे । अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥
दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे । अ॒पामर्थं॑ य॒तीनां॑ ब्र॒ह्मा भ॑वति॒ सार॑थिः ॥
dīrghátamā māmateyó jujurvā́n daśamé yugé | apā́m árthaṃ yatī́nāṃ brahmā́ bhavati sā́rathiḥ ||
Dīrghatamas, son of Mamata, ripened in the tenth age; for the seekers’ quest of the Waters, the brahman becomes the charioteer.
दी॒र्घऽत॑माः । मा॒म॒ते॒यः । जु॒जु॒र्वान् । द॒श॒मे । यु॒गे । अ॒पाम् । अर्थ॑म् । य॒तीना॑म् । ब्र॒ह्मा । भ॒व॒ति॒ । सार॑थिः ॥दीर्घतमाः । मामतेयः । जुजुर्वान् । दशमे । युगे । अपाम् । अर्थम् । यतीनाम् । ब्रह्मा । भवति । सारथिः ॥dīrgha-tamāḥ | māmateyaḥ | jujurvān | daśame | yuge | apām | artham | yatīnām | brahmā | bhavati | sārathiḥ