Sukta 1.158
उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् । मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥
उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् । मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ॥
úpa-stutir aucathyám uruṣyén mā́ mām imé patatríṇī ví dugdhām | mā́ mām édho dáśa-tayaś citó dhā́k prá yád vām baddhás tmaní khā́dati kṣā́m ||
May the up-stirring chant and the illumined utterance widen out to protect me; let not these two winged powers drain me apart. Let not the fuel and the tenfold piled fire consume me, when what is bound in its own self goes forth and eats into the earth-substance.
उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् । मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥उपस्तुतिः । औचथ्यम् । उरुष्येत् । मा । माम् । इमे इति । पतत्रिणी इति । वि । दुग्धाम् । मा । माम् । एधः । दशतयः । चितः । धाक् । प्र । यत् । वाम् । बद्धः । त्मनि । खादति । क्षाम् ॥upa-stutiḥ | aucathyam | uruṣyet | mā | mām | ime iti | patatriṇī iti | vi | dugdhām | mā | mām | edhaḥ | daśa-tayaḥ | citaḥ | dhāk | pra | yat | vām | baddhaḥ | tmani | khādati | kṣām