Sukta 1.158
युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः । उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥
यु॒क्तो ह॒ यद्वां॑ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः । उप॑ वा॒मव॑: शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवै॑: ॥
yuktó ha yád vāṃ taugryā́ya pérur ví mádhye árṇaso dhā́yi pajráḥ | úpa vā́m ávaḥ śaráṇaṃ gameyaṃ śū́ro nā́jma patáyadbhir évaiḥ ||
When the yoked (chariot/force) of yours carried the son of Tugra, and Pajra was set in the midst of the flood—then may I come near to your help as to a refuge, like a hero speeding on the course with flying steeds (energies).
यु॒क्तः । ह॒ । यत् । वा॒म् । तौ॒ग्र्याय॑ । पे॒रुः । वि । मध्ये॑ । अर्ण॑सः । धायि॑ । प॒ज्रः । उप॑ । वा॒म् । अवः॑ । श॒र॒णम् । ग॒मे॒य॒म् । शूरः॑ । न । अज्म॑ । प॒तय॑त्ऽभिः । एवैः॑ ॥युक्तः । ह । यत् । वाम् । तौग्र्याय । पेरुः । वि । मध्ये । अर्णसः । धायि । पज्रः । उप । वाम् । अवः । शरणम् । गमेयम् । शूरः । न । अज्म । पतयत्भिः । एवैः ॥yuktaḥ | ha | yat | vām | taugryāya | peruḥ | vi | madhye | arṇasaḥ | dhāyi | pajraḥ | upa | vām | avaḥ | śaraṇam | gameyam | śūraḥ | na | ajma | patayat-bhiḥ | evaiḥ