Sukta 1.158
को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः । जिगृतमस्मे रेवतीः पुरंधीः कामप्रेणेव मनसा चरन्ता ॥
को वां॑ दाशत्सुम॒तये॑ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः । जि॒गृ॒तम॒स्मे रे॒वती॒: पुरं॑धीः काम॒प्रेणे॑व॒ मन॑सा॒ चर॑न्ता ॥
kó vāṃ dā́śat su-matáye cid asyái vasū yád dhéthe námasā padé góḥ | jigṛtám asmé revátīḥ púraṃdhīḥ kā́ma-préṇeva mánasā cárantā ||
Who will give to you for this your glad goodwill, O shining ones—since you set (your grace) by homage at the footprint of the Cow (the ray of Light)? Lift up for us the rich fulfillments, moving in the mind like desire’s forward drive, so that our understanding becomes abundant.
कः । वा॒म् । दा॒श॒त् । सु॒ऽम॒तये॑ । चि॒त् । अ॒स्यै । वसू॒ इति॑ । यत् । धेथे॒ इति॑ । नम॑सा । प॒दे । गोः । जि॒गृ॒तम् । अ॒स्मे इति॑ । रे॒वतीः॑ । पुर॑म्ऽधीः । का॒म॒ऽप्रेण॑ऽइव । मन॑सा । चर॑न्ता ॥कः । वाम् । दाशत् । सुमतये । चित् । अस्यै । वसू इति । यत् । धेथे इति । नमसा । पदे । गोः । जिगृतम् । अस्मे इति । रेवतीः । पुरम्धीः । कामप्रेणइव । मनसा । चरन्ता ॥kaḥ | vām | dāśat | su-mataye | cit | asyai | vasūiti | yat | dhetheiti | namasā | pade | goḥ | jigṛtam | asme iti | revatīḥ | puram-dhīḥ | kāma-preṇa-iva | manasā | carantā