Sukta 1.158
वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ । दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती ॥
वसू॑ रु॒द्रा पु॑रु॒मन्तू॑ वृ॒धन्ता॑ दश॒स्यतं॑ नो वृषणाव॒भिष्टौ॑ । दस्रा॑ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ॥
vasū́ rudrā́ puru-mántū vṛ́dhantā daśasyátam no vṛ́ṣaṇāv abhíṣṭau | dasrā́ ha yád rékṇa aucathyó vāṃ prá yát sasrā́the ákavābhir ūtī́ ||
O Rudras, bright and many-minded, increasing powers—be worthy of our reverence, you strong ones, in your nearness. O Wonder-workers, when your riches are spoken of in the hymn, may your help flow out to us with unerring protection.
वसी॒ इति॑ । रु॒द्रा । पु॒रु॒मन्तू॒ इति॑ पु॒रु॒ऽमन्तू॑ । वृ॒धन्ता॑ । द॒श॒स्यत॑म् । नः॒ । वृ॒ष॒णौ॒ । अ॒भिष्टौ॑ । दस्रा॑ । ह॒ । यत् । रेक्णः॑ । औ॒च॒थ्यः । वा॒म् । प्र । यत् । स॒स्राथे॒ इति॑ । अक॑वाभिः । ऊ॒ती ॥वसी इति । रुद्रा । पुरुमन्तू इति पुरुमन्तू । वृधन्ता । दशस्यतम् । नः । वृषणौ । अभिष्टौ । दस्रा । ह । यत् । रेक्णः । औचथ्यः । वाम् । प्र । यत् । सस्राथे इति । अकवाभिः । ऊती ॥vasī iti | rudrā | purumantūitipuru-mantū | vṛdhantā | daśasyatam | naḥ | vṛṣaṇau | abhi ṣṭau | dasrā | ha | yat | rekṇaḥ | aucathyaḥ | vām | pra | yat | sasrātheiti | akavābhiḥ | ūtī