Sukta 1.155
द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति । तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥
द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो॑ऽभि॒ख्याय॒ मर्त्यो॑ भुरण्यति । तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय॑न्तः पत॒त्रिण॑: ॥
dve id asya kramaṇe svaḥdṛśo 'bhikhyāya martyo bhuraṇyati | tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ ||
Two of his strides the mortal can behold, looking toward the vision of the luminous heaven; but his third none can reach—no, not even the winged birds in their flight.
द्वे इति॑ । इत् । अ॒स्य॒ । क्रम॑णे॒ इति॑ । स्वः॒ऽदृशः॑ । अ॒भि॒ऽख्याय॑ । मर्त्यः॑ । भु॒र॒ण्य॒ति॒ । तृ॒तीय॑म् । अ॒स्य॒ । नकिः॑ । आ । द॒ध॒र्ष॒ति॒ । वयः॑ । च॒न । प॒तय॑न्तः । प॒त॒त्रिणः॑ ॥द्वे इति । इत् । अस्य । क्रमणे इति । स्वःदृशः । अभिख्याय । मर्त्यः । भुरण्यति । तृतीयम् । अस्य । नकिः । आ । दधर्षति । वयः । चन । पतयन्तः । पतत्रिणः ॥dve iti | it | asya | kramaṇeiti | svaḥ-dṛśaḥ | abhi-khyāya | martyaḥ | bhuraṇyati | tṛtīyam | asya | nakiḥ | ā | dadharṣati | vayaḥ | cana | patayantaḥ | patatriṇaḥ