Sukta 1.155
चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीँरवीविपत् । बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥
च॒तुर्भि॑: सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ॑रवीविपत् । बृ॒हच्छ॑रीरो वि॒मिमा॑न॒ ऋक्व॑भि॒र्युवाकु॑मार॒: प्रत्ये॑त्याह॒वम् ॥
caturbhiḥ sākaṃ navatiṃ ca nāmabhiś cakraṃ na vṛttaṃ vyatīn avīvipat | bṛhaccharīro vimimāna ṛkvabhir yuvākumāraḥ praty ety āhavam ||
With four and with ninety names together he set in motion the many-spoked wheel, like a revolving circle, sending it forth through its courses. Vast-bodied, measuring with the seers’ hymns, the ever-young, never-a-child, comes forward to the battle.
च॒तुःऽभिः॑ । सा॒कम् । न॒व॒तिम् । च॒ । नाम॑ऽभिः । च॒क्रम् । न । वृ॒त्तम् । व्यती॑न् । अ॒वी॒वि॒प॒त् । बृ॒हत्ऽश॑रीरः । वि॒ऽमिमा॑नः । ऋक्व॑ऽभिः । युवा॑ । अकु॑मारः । प्रति॑ । ए॒ति॒ । आ॒ऽह॒वम् ॥चतुःभिः । साकम् । नवतिम् । च । नामभिः । चक्रम् । न । वृत्तम् । व्यतीन् । अवीविपत् । बृहत्शरीरः । विमिमानः । ऋक्वभिः । युवा । अकुमारः । प्रति । एति । आहवम् ॥catuḥ-bhiḥ | sākam | navatim | ca | nāma-bhiḥ | cakram | na | vṛttam | vyatīn | avīvipat | bṛhat-śarīraḥ | vi-mimānaḥ | ṛkva-bhiḥ | yuvā | akumāraḥ | prati | et i | āhavam