Sukta 1.155
तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः । यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥
तत्त॒दिद॑स्य॒ पौंस्यं॑ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुष॑: । यः पार्थि॑वानि त्रि॒भिरिद्विगा॑मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे॑ ॥
tat-tad id asya paṃsyaṃ gṛṇīmasi inasya trātur avṛkasya mīḷhuṣaḥ | yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭor urugāyāya jīvase ||
That, even that heroic might of his we proclaim: of the strong protector, the un-wolfed, the bountiful. He who with three strides has widely measured the earthly worlds, for the wide-going life, for the vast hymn.
तत्ऽत॑त् । इत् । अ॒स्य॒ । पौंस्य॑म् । गृ॒णी॒म॒सि॒ । इ॒नस्य॑ । त्रा॒तुः । अ॒वृ॒कस्य॑ । मी॒ळ्हुषः॑ । यः । पार्थि॑वानि । त्रि॒ऽभिः । इत् । विगा॑मऽभिः । उ॒रु । क्रमि॑ष्ट । उ॒रु॒ऽगा॒याय॑ जी॒वसे॑ ॥तत्तत् । इत् । अस्य । पौंस्यम् । गृणीमसि । इनस्य । त्रातुः । अवृकस्य । मीळ्हुषः । यः । पार्थिवानि । त्रिभिः । इत् । विगामभिः । उरु । क्रमिष्ट । उरुगायाय जीवसे ॥tat-tat | it | asya | paiṃsyam | gṛṇīmasi | inasya | trātuḥ | avṛkasya | mīḷhuṣaḥ | yaḥ | pārthivāni | tri-bhiḥ | it | vigāma-bhiḥ | uru | kramiṣṭa | uru-gāyāyajīvase