Sukta 1.155
ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे । दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥
ता ईं॑ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे । दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥
tā īṃ vardhanti mahy asya paṃsyaṃ ni mātarā nayati retase bhuje | dadhāti putro 'varam paraṃ pitur nāma tṛtīyam adhi rocane divaḥ ||
These two increase the mighty manhood of him; the two Mothers are led downward for the seed and for the enjoyment. The Son establishes the lower and the higher name of the Father, and the third he sets in the luminous realm of heaven.
ताः । ई॒म् । व॒र्ध॒न्ति॒ । महि॑ । अ॒स्य॒ । पौंस्य॑म् । नि । मा॒तरा॑ । न॒य॒ति॒ । रेत॑से । भु॒जे । दधा॑ति । पु॒त्रः । अव॑रम् । पर॑म् । पि॒तुः । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥ताः । ईम् । वर्धन्ति । महि । अस्य । पौंस्यम् । नि । मातरा । नयति । रेतसे । भुजे । दधाति । पुत्रः । अवरम् । परम् । पितुः । नाम । तृतीयम् । अधि । रोचने । दिवः ॥tāḥ | īm | vardhanti | mahi | asya | paiṃsyam | ni | mātarā | nayati | retase | bhuje | dadhāti | putraḥ | avaram | param | pituḥ | nāma | tṛtīyam | adhi | rocane | divaḥ