Sukta 1.155
त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति । या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥
त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी॑वतो॒रिन्द्रा॑विष्णू सुत॒पा वा॑मुरुष्यति । या मर्त्या॑य प्रतिधी॒यमा॑न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथ॑: ॥
tveṣam itthā samaraṇaṃ śimīvator indrāviṣṇū sutapā vām uruṣyati | yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ ||
Fierce indeed is the battle of you two impetuous Powers, O Indra and Viṣṇu; the Soma-drinker widens for you the safe way. And when for the mortal the hostile force is set against him, even from the fire’s blaze and from the onrush you two protect and make the passage wide.
त्वे॒षम् । इ॒त्था । स॒म्ऽअर॑णम् । शिमी॑ऽवतोः । इन्द्रा॑विष्णू॒ इति॑ । सु॒त॒ऽपाः । वा॒म् । उ॒रु॒ष्य॒ति॒ । या । मर्त्या॑य । प्र॒ति॒ऽधी॒यमा॑नम् । इत् । कृ॒शानोः॑ । अस्तुः॑ । अ॒स॒नाम् । उ॒रु॒ष्यथः॑ ॥त्वेषम् । इत्था । सम्अरणम् । शिमीवतोः । इन्द्राविष्णू इति । सुतपाः । वाम् । उरुष्यति । या । मर्त्याय । प्रतिधीयमानम् । इत् । कृशानोः । अस्तुः । असनाम् । उरुष्यथः ॥tveṣam | itthā | sam-araṇam | śimī-vatoḥ | indrāviṣṇūiti | suta-pāḥ | vām | uruṣyati | yā | martyāya | prati-dhīyamānam | it | kṛśānoḥ | astuḥ | asanām | uruṣyathaḥ