Sukta 1.155
प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत । या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥
प्र व॒: पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा॑य॒ विष्ण॑वे चार्चत । या सानु॑नि॒ पर्व॑ताना॒मदा॑भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना॑ ॥
pra vaḥ pāntam andhasaḥ dhiyāyate mahe śūrāya viṣṇave cārcata | yā sānuni parvatānām adābhyā mahas tasthatur arvatā iva sādhunā ||
Bring forward your hymning for Viṣṇu, the great heroic Power, who is drunk with the clarified delight and who awakens the thought. He who stands on the mountain-summits, unconquerable, vast in being, firm and straight like a good steed.
प्र । वः॒ । पान्त॑म् । अन्ध॑सः । धि॒या॒ऽय॒ते । म॒हे । शूरा॑य । विष्ण॑वे । च॒ । अ॒र्च॒त॒ । या । सानु॑नि । पर्व॑तानाम् । अदा॑भ्या । म॒हः । त॒स्थतुः॑ । अर्व॑ताऽइव । सा॒धुना॑ ॥प्र । वः । पान्तम् । अन्धसः । धियायते । महे । शूराय । विष्णवे । च । अर्चत । या । सानुनि । पर्वतानाम् । अदाभ्या । महः । तस्थतुः । अर्वताइव । साधुना ॥pra | vaḥ | pāntam | andhasaḥ | dhiyāyate | mahe | śūrāya | viṣṇave | ca | arcata | yā | sānuni | parvatānām | adābhyā | mahaḥ | tasthatuḥ | arvatāiva | sādhunā