Sukta 1.153
पीपाय धेनुरदितिॠताय जनाय मित्रावरुणा हविर्दे । हिनोति यद्वां विदथे सपर्यन्त्स रातहव्यो मानुषो न होता ॥
पी॒पाय॑ धे॒नुरदि॑तिॠ॒ताय॒ जना॑य मित्रावरुणा हवि॒र्दे । हि॒नोति॒ यद्वां॑ वि॒दथे॑ सप॒र्यन्त्स रा॒तह॑व्यो॒ मानु॑षो॒ न होता॑ ॥
pīpā́ya dhēnúr áditiḥ ṛtā́ya jánāya mitrāvaruṇā havir-dé | hinóti yád vāṁ vidáthē sapáryan sá rā́ta-havyo mā́nuṣo na hótā ||
Aditi, the nourishing Cow, swells for the people who choose the ṛta; O Mitra and Varuṇa, she yields the offering’s gift. When the human Hotṛ serves you in the assembly, he impels the rite forward, one whose oblations are truly given.
पी॒पाय॑ । धे॒नुः । अदि॑तिः । ऋ॒ताय॑ । जना॑य । मि॒त्रा॒व॒रु॒णा॒ । ह॒विः॒ऽदे । हि॒नोति॑ । यत् । वा॒म् । वि॒दथे॑ । स॒प॒र्यन् । सः । रा॒तऽह॑व्यः । मानु॑षः । न । होता॑ ॥पीपाय । धेनुः । अदितिः । ऋताय । जनाय । मित्रावरुणा । हविःदे । हिनोति । यत् । वाम् । विदथे । सपर्यन् । सः । रातहव्यः । मानुषः । न । होता ॥pīpāya | dhenuḥ | aditiḥ | ṛtāya | janāya | mitrāvaruṇā | haviḥ-de | hinoti | yat | vām | vidathe | saparyan | saḥ | rāta-havyaḥ | mānuṣaḥ | na | hotā