Sukta 1.153
प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः । अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥
प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया॑मि मित्रावरुणा सुवृ॒क्तिः । अ॒नक्ति॒ यद्वां॑ वि॒दथे॑षु॒ होता॑ सु॒म्नं वां॑ सू॒रिर्वृ॑षणा॒विय॑क्षन् ॥
prástutir vāṁ dhā́ma na prá-yuktir áyāmi mitrāvaruṇā su-vṛ́ktiḥ | anákti yád vāṁ vidáthēṣu hótā sumnáṁ vāṁ sūrír vṛṣaṇāv íyakṣan ||
Like a well-set order of the rite, my praise advances to you—O Mitra and Varuṇa—as a right-turned utterance. When in the assemblies the Hotṛ anoints you, then the illumined giver seeks to win for you (and from you) the bliss of your favor, O strong Ones.
प्रऽस्तु॑तिः । वा॒म् । धाम॑ । न । प्रऽयु॑क्तिः । अया॑मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒ऽवृ॒क्तिः । अ॒नक्ति॑ । यत् । वा॒म् । वि॒दथे॑षु । होता॑ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय॑क्षन् ॥प्रस्तुतिः । वाम् । धाम । न । प्रयुक्तिः । अयामि । मित्रावरुणा । सुवृक्तिः । अनक्ति । यत् । वाम् । विदथेषु । होता । सुम्नम् । वाम् । सूरिः । वृषणौ । इयक्षन् ॥pra-stutiḥ | vām | dhāma | na | pra-yuktiḥ | ayāmi | mitrāvaruṇā | su-vṛktiḥ | anakti | yat | vām | vidatheṣu | hotā | sumnam | vām | sūriḥ | vṛṣaṇau | iyakṣan