Sukta 1.153
उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः । उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥
उ॒त वां॑ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः । उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥
utá vāṁ vikṣú madyā́sv ándho gā́va ā́paś ca pīpayanta devī́ḥ | utó no asyá pū́rvyaḥ pátir dán vītáṁ pātáṁ páyasa usríyāyāḥ ||
And among the clans, in the raptures, the draught and the Cows and the divine Waters increase for you. And for us may the ancient Lord of this (order) grant: come, drink—drink the milk of the radiant Cow, the nourishing essence.
उ॒त । वा॒म् । वि॒क्षु । मद्या॑सु । अन्धः॑ । गावः॑ । आपः॑ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः । उ॒तो इति॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः॑ । दन् । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रिया॑याः ॥उत । वाम् । विक्षु । मद्यासु । अन्धः । गावः । आपः । च । पीपयन्त । देवीः । उतो इति । नः । अस्य । पूर्व्यः । पतिः । दन् । वीतम् । पातम् । पयसः । उस्रियायाः ॥uta | vām | vikṣu | madyāsu | andhaḥ | gāvaḥ | āpaḥ | ca | pīpayanta | devīḥ | uto iti | naḥ | asya | pūrvyaḥ | patiḥ | dan | vītam | pātam | payasaḥ | usriyāyāḥ