Sukta 1.153
यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः । घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥
यजा॑महे वां म॒हः स॒जोषा॑ ह॒व्येभि॑र्मित्रावरुणा॒ नमो॑भिः । घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा॑म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर॑न्ति ॥
yajā́mahe vāṁ maháḥ sa-jóṣā havyébhiḥ mitrāvaruṇā námo-bhiḥ | ghṛtáir ghṛtasnū adha yád vā́m asmē adhvaryávo na dhī́ti-bhir bháranti ||
We worship you two in your greatness, in one accord, with our offerings and our acts of reverence. O you who are rich with the shining ghee, when the priests within us bear you here by their insights, then come and take delight in the inner oblation.
यजा॑महे । वा॒म् । म॒हः । स॒ऽजोषाः॑ । ह॒व्येभिः॑ । मि॒त्रा॒व॒रु॒णा॒ । नमः॑ऽभिः । घृ॒तैः । घृ॒त॒स्नू॒ इति॑ घृतऽस्नू । अध॑ । यत् । वा॒म् । अ॒स्मे इति॑ । अ॒ध्व॒र्यवः॑ । न । धी॒तिऽभिः॑ । भर॑न्ति ॥यजामहे । वाम् । महः । सजोषाः । हव्येभिः । मित्रावरुणा । नमःभिः । घृतैः । घृतस्नू इति घृतस्नू । अध । यत् । वाम् । अस्मे इति । अध्वर्यवः । न । धीतिभिः । भरन्ति ॥yajāmahe | vām | mahaḥ | sa-joṣāḥ | havyebhiḥ | mitrāvaruṇā | namaḥ-bhiḥ | ghṛtaiḥ | ghṛtasnūitighṛta-snū | adha | yat | vām | asme iti | adhvaryavaḥ | na | dhīti-bhiḥ | bharanti