Sukta 1.151
युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु । भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥
यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता॑वाना॒ मन॑सो॒ न प्रयु॑क्तिषु । भर॑न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा॑शाथे ॥
yuvā́ṃ yajñáiḥ prathamā́ góbhir añjata ṛtā́vānā mánaso ná práyuktiṣu | bháranti vāṃ mánmanā saṃyátā gíro ádṛpyatā mánasā revád āśāthe ||
You two, first, are anointed by the offerings and by the rays of illumination—upholders of ṛta—like the mind in its right harnessings. The controlled chants carry to you the inner formations; with a mind free from intoxication and error you grant the plenitude that is rich and luminous.
यु॒वाम् । य॒ज्ञैः । प्र॒थ॒मा । गोभिः॑ । अ॒ञ्ज॒ते॒ । ऋत॑ऽवाना । मन॑सः । न । प्रऽयु॑क्तिषु । भर॑न्ति । वा॒म् । मन्म॑ना । स॒म्ऽयता॑ । गिरः॑ । अदृ॑प्यता । मन॑सा । रे॒वत् । आ॒शा॒थे॒ इति॑ ॥युवाम् । यज्ञैः । प्रथमा । गोभिः । अञ्जते । ऋतवाना । मनसः । न । प्रयुक्तिषु । भरन्ति । वाम् । मन्मना । सम्यता । गिरः । अदृप्यता । मनसा । रेवत् । आशाथे इति ॥yuvām | yajñaiḥ | prathamā | gobhiḥ | añjate | ṛta-vānā | manasaḥ | na | pra-yuktiṣu | bharanti | vām | manmanā | sam-yatā | giraḥ | adṛpyatā | manasā | revat | āśātheiti