Sukta 1.151
रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनम् । न वां द्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम् ॥
रे॒वद्वयो॑ दधाथे रे॒वदा॑शाथे॒ नरा॑ मा॒याभि॑रि॒तऊ॑ति॒ माहि॑नम् । न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे॑व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ॥
revádváyo dadhāthe revád āśāthe nárā māyā́bhir itaḥ-ūtí mā́hinam | ná vāṃ dyā́vo áhabhir nót síndhavo ná deva-tváṃ paṇáyo ná ānaśur mágham ||
You establish the rich life-force; you grant the rich fulfilment, O two lords, by your powers of wise formation and your help from near. Neither the heavens with their days, nor the rivers, have reached your godhead; nor have the traffickers of darkness won your largesse.
रे॒वत् । वयः॑ । द॒धा॒थे॒ । रे॒वत् । आ॒शा॒थे॒ इति॑ । नरा॑ । मा॒याभिः॑ । इ॒तःऽऊ॑ति । माहि॑नम् । न । वा॒म् । द्यावः॑ । अह॑ऽभिः । न । उ॒त । सिन्ध॑वः । न । दे॒व॒ऽत्वम् । प॒णयः॑ । न । आ॒न॒शुः॒ । म॒घम् ॥रेवत् । वयः । दधाथे । रेवत् । आशाथे इति । नरा । मायाभिः । इतःऊति । माहिनम् । न । वाम् । द्यावः । अहभिः । न । उत । सिन्धवः । न । देवत्वम् । पणयः । न । आनशुः । मघम् ॥revat | vayaḥ | dadhāthe | revat | āśātheiti | narā | māyābhiḥ | itaḥ-ūti | māhinam | na | vām | dyāvaḥ | aha-bhiḥ | na | uta | sindhavaḥ | na | deva-tvam | paṇayaḥ | na | ānaśuḥ | magham