Sukta 1.151
यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः । उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥
यो वां॑ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः । उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिर॑: सुम॒तिं ग॑न्तमस्म॒यू ॥
yó vā́ṃ yajñáiḥ śaśamānáḥ ha dā́śati kavír hótā yájati manmá-sā́dhanaḥ | upā́ha táṃ gácchatho vīthó adhvarám ácchā gíraḥ su-matíṃ gantam asmayū́ ||
Whoever, growing in strength through the offerings, gives to you—he, the seer and the hotar, sacrifices as one who accomplishes the inner word. To him indeed you two go; come to the rite’s journey, to the chants—arrive with your luminous goodwill for us who seek you.
यः । वा॒म् । य॒ज्ञैः । श॒श॒मा॒नः । ह॒ । दाश॑ति । क॒विः । होता॑ । यज॑ति । म॒न्म॒ऽसाध॑नः । उप॑ । अह॑ । तम् । गच्छ॑थः । वी॒थः । अ॒ध्व॒रम् । अच्छ॑ । गिरः॑ । सु॒ऽम॒तिम् । ग॒न्त॒म् । अ॒स्म॒यू इत्य॑स्म॒ऽयू ॥यः । वाम् । यज्ञैः । शशमानः । ह । दाशति । कविः । होता । यजति । मन्मसाधनः । उप । अह । तम् । गच्छथः । वीथः । अध्वरम् । अच्छ । गिरः । सुमतिम् । गन्तम् । अस्मयू इत्यस्मयू ॥yaḥ | vām | yajñaiḥ | śaśamānaḥ | ha | dāśati | kaviḥ | hotā | yajati | manma-sādhanaḥ | upa | aha | tam | gacchathaḥ | vīthaḥ | adhvaram accha | giraḥ | su-matim | gantam | asmayū ity asma-yū