Sukta 1.151
प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् । युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥
प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता॑वानावृ॒तमा घो॑षथो बृ॒हत् । यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे अ॒पः ॥
prá sā́ kṣitír asura yā́ máhi priyā́ ṛtā́vānāv ṛtám ā́ ghoṣatho bṛhát | yuváṃ divó bṛható dákṣam ā́bhuvaṃ gā́ṃ na dhury úpa yuñjāthe ápaḥ ||
This great and beloved sovereignty, O Asura-powers, you proclaim as the Vast Truth, you who are possessed of ṛta. You two have become the mighty skill of the wide heaven; and you yoke the Waters like a draught-cow to the yoke—making the currents serve the work.
प्र । सा । क्षि॒तिः । अ॒सु॒र॒ । या । महि॑ । प्रि॒या । ऋत॑ऽवानौ । ऋ॒तम् । आ । घो॒ष॒थः॒ । बृ॒हत् । यु॒वम् । दि॒वः । बृ॒ह॒तः॒ । दक्ष॑म् । आ॒ऽभुव॑म् । गाम् । न । धु॒रि । उप॑ । यु॒ञ्जा॒थे॒ इति॑ । अ॒पः ॥प्र । सा । क्षितिः । असुर । या । महि । प्रिया । ऋतवानौ । ऋतम् । आ । घोषथः । बृहत् । युवम् । दिवः । बृहतः । दक्षम् । आभुवम् । गाम् । न । धुरि । उप । युञ्जाथे इति । अपः ॥pra | sā | kṣitiḥ | asura | yā | mahi | priyā | ṛta-vānau | ṛtam | ā | ghoṣathaḥ | bṛhat | yuvam | divaḥ | bṛhataḥ | dakṣam | ābhuvam | gām | na | dhuri | upa | yuñjātheiti | apaḥ