Sukta 1.151
आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे । यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥
आ वां॑ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं॑ वृषणा॒ दक्ष॑से म॒हे । यदी॑मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या॑ वीथो अध्व॒रम् ॥
ā́ vāṃ bhūṣan kṣitáyo jánma ródasyoḥ pravā́cyaṃ vṛṣaṇā dákṣase mahé | yadī́m ṛtā́ya bháratho yad árvate prá hotráyā śimyā́ vītho adhvarám ||
To you two, O mighty ones, the peoples from birth in both worlds come with adornment and the word that must be spoken—for your great skill and power. When you bear it for the Truth, when for the swift mover, then by the priestly action and by striving you guide the sacrifice forward.
आ । वा॒म् । भू॒ष॒न् । क्षि॒तयः॑ । जन्म॑ । रोद॑स्योः । प्र॒ऽवाच्य॑म् । वृ॒ष॒णा॒ । दक्ष॑से । म॒हे । यत् । ई॒म् । ऋ॒ताय॑ । भर॑थः । यत् । अर्व॑ते । प्र । होत्र॑या । शिम्या॑ । वी॒थः॒ । अ॒ध्व॒रम् ॥आ । वाम् । भूषन् । क्षितयः । जन्म । रोदस्योः । प्रवाच्यम् । वृषणा । दक्षसे । महे । यत् । ईम् । ऋताय । भरथः । यत् । अर्वते । प्र । होत्रया । शिम्या । वीथः । अध्वरम् ॥ā | vām | bhūṣan | kṣitayaḥ | janma | rodasyoḥ | pra-vācyam | vṛṣaṇā | dakṣase | mahe | yat | īm | ṛtāya | bharathaḥ | yat | arvate | pra | hotrayā | śimyā | vīthaḥ | adhvaram