Sukta 1.151
यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः । अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥
यद्ध॒ त्यद्वां॑ पुरुमी॒ळ्हस्य॑ सो॒मिन॒: प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुव॑: । अध॒ क्रतुं॑ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या॑वतः ॥
yád dha tyád vāṃ purumīḷ́hasya somínaḥ prá mitrā́so ná dadhiré svā́bhuvaḥ | ádha krátuṃ vidataṃ gātúm árcata utá śrutáṃ vṛṣaṇā pastyā́vataḥ ||
When indeed those Soma-pressers, seeking rich grace, put forward your working as friends, self-effective—then they hymn your will and find the path. And you, O two mighty ones, make them heard and established within the home of their being.
यत् । ह॒ । त्यत् । वा॒म् । पु॒रु॒ऽमी॒ळ्हस्य॑ । सो॒मिनः॑ । प्र । मि॒त्रासः॑ । न । द॒धि॒रे । सु॒ऽआ॒भुवः॑ । अध॑ । क्रतु॑म् । वि॒द॒त॒म् । गा॒तुम् । अर्च॑ते । उ॒त । श्रु॒त॒म् । वृ॒ष॒णा॒ । प॒स्त्य॑ऽवतः ॥यत् । ह । त्यत् । वाम् । पुरुमीळ्हस्य । सोमिनः । प्र । मित्रासः । न । दधिरे । सुआभुवः । अध । क्रतुम् । विदतम् । गातुम् । अर्चते । उत । श्रुतम् । वृषणा । पस्त्यवतः ॥yat | ha | tyat | vām | puru-mīḷhasya | sominaḥ | pra | mitrāsaḥ | na | dadhire | su-ābhuvaḥ | adha | kratum | vidatam | gātum | arcate | uta | śrutam | vṛṣaṇā | pastya-vataḥ