Sukta 1.151
मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् । अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥
मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यव॑: स्वा॒ध्यो॑ वि॒दथे॑ अ॒प्सु जीज॑नन् । अरे॑जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मव॑: ॥
mitráṃ na yaṃ śimyā́ góṣu gavyávaḥ svā́dhyo vidáthe apsú jī́janan | árejetāṃ ródasī pā́jasā girā́ práti priyáṃ yajatáṃ januṣā́m ávaḥ ||
Like a Friend, whom the seekers of the luminous herds bring to birth by their striving—by self-law in the gathering, in the Waters—so the two Worlds tremble to their force. With the word they answer the beloved and adorable pair, the guardianship of beings from birth onward.
मि॒त्रम् । न । यम् । शिम्या॑ । गोषु॑ । ग॒व्यवः॑ । सु॒ऽआ॒ध्यः॑ । वि॒दथे॑ । अ॒प्ऽसु । जीज॑नन् । अरे॑जेताम् । रोद॑सी॒ इति॑ । पाज॑सा । गि॒रा । प्रति॑ । प्रि॒यम् । य॒ज॒तम् । ज॒नुषा॑म् । अवः॑ ॥मित्रम् । न । यम् । शिम्या । गोषु । गव्यवः । सुआध्यः । विदथे । अप्सु । जीजनन् । अरेजेताम् । रोदसी इति । पाजसा । गिरा । प्रति । प्रियम् । यजतम् । जनुषाम् । अवः ॥mitram | na | yam | śimyā | goṣu | gavyavaḥ | su-ādhyaḥ | vidathe | ap-su | jījanan | arejetām | rodasī iti | pājasā | girā | prati | priyam | yajatam | januṣām | avaḥ