Sukta 1.15
द्रविणोदा ददातु नो वसूनि यानि शृण्विरे । देवेषु ता वनामहे ॥
द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे । दे॒वेषु॒ ता व॑नामहे ॥
draviṇodā́ dadātu no vásūni yā́ni śṛṇviré | devéṣu tā́ vanāmahe ||
May Draviṇodā give us those luminous riches that are heard and confirmed among the gods; those we seek to win in the divine realms (of consciousness).
द्र॒वि॒णः॒ऽदाः । द॒दा॒तु॒ । नः॒ । वसू॑नि । यानि॑ । शृ॒ण्वि॒रे । दे॒वेषु॑ । ता । व॒ना॒म॒हे॒ ॥द्रविणःदाः । ददातु । नः । वसूनि । यानि । शृण्विरे । देवेषु । ता । वनामहे ॥draviṇaḥ-dāḥ | dadātu | naḥ | vasūni | yāni | śṛṇvire | deveṣu | tā | vanāmahe