Sukta 1.15
युवं दक्षं धृतव्रत मित्रावरुण दूळभम् । ऋतुना यज्ञमाशाथे ॥
यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म् । ऋ॒तुना॑ य॒ज्ञमा॑शाथे ॥
yuváṃ dákṣaṃ dhṛtavratā mítrā́varuṇa dūḷábhām | ṛtúnā yajñám āśāthe ||
You two, Mitra and Varuṇa, keepers of the firm law, uphold the effective power (dakṣa) hard to assail; by the Truth’s right rhythm (ṛtu) you attain and foster the sacrifice within us.
यु॒वम् । दक्ष॑म् । धृ॒त॒ऽव्र॒ता॒ । मित्रा॑वरुणा । दुः॒ऽदभ॑म् । ऋ॒तुना॑ । य॒ज्ञम् । आ॒शा॒थे॒ इति॑ ॥युवम् । दक्षम् । धृतव्रता । मित्रावरुणा । दुःदभम् । ऋतुना । यज्ञम् । आशाथे इति ॥yuvam | dakṣam | dhṛta-vratā | mitrāvaruṇā | duḥ-dabham | ṛtunā | yajñam | āśātheiti