Sukta 1.15
ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु । तवेद्धि सख्यमस्तृतम् ॥
ब्राह्म॑णादिन्द्र॒ राध॑स॒: पिबा॒ सोम॑मृ॒तूँरनु॑ । तवेद्धि स॒ख्यमस्तृ॑तम् ॥
brā́hmaṇād indra rā́dhasaḥ pibā́ sómam ṛtū́n ánu | tavéd dhí sakhyám ástṛtam ||
From the priestly power (brahman), O Indra, drink the Soma of thy plenitude, following the right seasons and measures of the Truth; for thine indeed is the unbroken friendship (with the seeker).
ब्राह्म॑णात् । इ॒न्द्र॒ । राध॑सः । पिब॑ । सोम॑म् । ऋ॒तून् । अनु॑ । तव॑ । इत् । हि । स॒ख्यम् । अस्तृ॑तम् ॥ब्राह्मणात् । इन्द्र । राधसः । पिब । सोमम् । ऋतून् । अनु । तव । इत् । हि । सख्यम् । अस्तृतम् ॥brāhmaṇāt | indra | rādhasaḥ | piba | somam | ṛtūn | anu | tava | it | hi | sakhyam | astṛtam