Sukta 1.147
यो नो अग्ने अररिवाँ अघायुररातीवा मर्चयति द्वयेन । मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥
यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ । मन्त्रो॑ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं॑ दुरु॒क्तैः ॥
yó no agne arárivā̃n aghāyúr arātīvā́ marcáyati dvayéna | mántro gurúḥ púnar astu só asmai ánu mṛkṣīṣṭa tanvám duruktáiḥ ||
O Agni, whoever among us, hostile and moving in the will to harm, assails (the soul) in a double way—by act and by speech—may that heavy spell rebound upon him; and do you cleanse our embodied being from the stain of perverse utterances.
यः । नः॒ । अ॒ग्ने॒ । अर॑रिऽवान् । अ॒घ॒ऽयुः । अ॒रा॒ति॒ऽवा । म॒र्चय॑ति । द्व॒येन॑ । मन्त्रः॑ । गु॒रुः । पुनः॑ । अ॒स्तु॒ । सः । अ॒स्मै॒ । अनु॑ । मृ॒क्षी॒ष्ट॒ । त॒न्व॑म् । दुः॒ऽउ॒क्तैः ॥यः । नः । अग्ने । अररिवान् । अघयुः । अरातिवा । मर्चयति । द्वयेन । मन्त्रः । गुरुः । पुनः । अस्तु । सः । अस्मै । अनु । मृक्षीष्ट । तन्वम् । दुःउक्तैः ॥yaḥ | naḥ | agne | arari-vān | agha-yuḥ | arāti-vā | marcayati | dvayena | mantraḥ | guruḥ | punaḥ | astu | saḥ | asmai | anu | mṛkṣīṣṭa | tanvam | duḥ-uktaiḥ