Sukta 1.147
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् । ररक्ष तान्त्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥
ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् । र॒रक्ष॒ तान्त्सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ॥
yé pā́yavo mā́mateyaṃ te agne páśyanto andháṃ duritā́d árakṣan | rárakṣa tā́nt su-kṛ́to viśvá-vedā dipsánta íd ripávo nā́ha debhuḥ ||
Those protectors, your Māmateya ones, O Agni, seeing the blind darkness, guarded him from evil. Protect them, O all-knowing, for they are doers of the good; though enemies desire it, they do not harm at all.
ये । पा॒यवः॑ । मा॒म॒ते॒यम् । ते॒ । अ॒ग्ने॒ । पश्य॑न्तः । अ॒न्धम् । दुः॒ऽइ॒तात् । अर॑क्षन् । र॒रक्ष॑ । तान् । सु॒ऽकृतः॑ । वि॒श्वऽवे॑दाः । दिप्स॑न्तः । इत् । रि॒पवः॑ । न । अह॑ । दे॒भुः॒ ॥ये । पायवः । मामतेयम् । ते । अग्ने । पश्यन्तः । अन्धम् । दुःइतात् । अरक्षन् । ररक्ष । तान् । सुकृतः । विश्ववेदाः । दिप्सन्तः । इत् । रिपवः । न । अह । देभुः ॥ye | pāyavaḥ | māmateyam | te | agne | paśyantaḥ | andham | duḥ-itāt | arakṣan | rarakṣa | tān | su-kṛtaḥ | viśva-vedāḥ | dipsantaḥ | it | ripavaḥ | na | aha | debhuḥ