Sukta 1.147
उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन । अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥
उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं॑ म॒र्चय॑ति द्व॒येन॑ । अत॑: पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि॑र्नो दुरि॒ताय॑ धायीः ॥
utá vā yáḥ sahasya právidvān márto mártaṃ marcáyati dvayéna | atáḥ pāhi stavamāna stuvántam agne mā́kiḥ no duritā́ya dhāyīḥ ||
And again, whoever—though claiming knowledge and strength—being a mortal assails a mortal by a double means, from that guard us, O Agni, when we affirm and praise; let none place us into the path of misfortune and wrong-going.
उ॒त । वा॒ । यः । स॒ह॒स्य॒ । प्र॒ऽवि॒द्वान् । मर्तः॑ । मर्त॑म् । म॒र्चय॑ति । द्व॒येन॑ । अतः॑ । पा॒हि॒ । स्त॒व॒मा॒न॒ । स्तु॒वन्त॑म् । अग्ने॑ । माकिः॑ । नः॒ । दुः॒ऽइ॒ताय॑ । धा॒यीः॒ ॥उत । वा । यः । सहस्य । प्रविद्वान् । मर्तः । मर्तम् । मर्चयति । द्वयेन । अतः । पाहि । स्तवमान । स्तुवन्तम् । अग्ने । माकिः । नः । दुःइताय । धायीः ॥uta | vā | yaḥ | sahasya | pra-vidvān | martaḥ | martam | marcayati | dvayena | ataḥ | pāhi | stavamāna | stuvantam | agne | mākiḥ | naḥ | duḥ-itāya | dhāyīḥ