Sukta 1.147
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥
बोधा॑ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः । पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं॑ वन्दे अग्ने ॥
bódhā me asyá vácaso yaviṣṭha maṃhíṣṭhasya prá-bhṛtasya svadhāvaḥ | pī́yati tvo ánu tvo gṛṇāti vandā́rus te tánvaṃ vande agne ||
Awaken to this my word, O youngest, O self-powered one, brought forward from the greatest abundance. The worshipper drinks you in, follows you, sings after you; I bow to your very body, O Agni.
बोध॑ । मे॒ । अ॒स्य । वच॑सः । य॒वि॒ष्ठ॒ । मंहि॑ष्ठस्य । प्रऽभृ॑तस्य । स्व॒धा॒ऽवः॒ । पीय॑ति । त्वः॒ । अनु॑ । त्वः॒ । गृ॒णा॒ति॒ । व॒न्दारुः॑ । ते॒ । त॒न्व॑म् । व॒न्दे॒ । अ॒ग्ने॒ ॥बोध । मे । अस्य । वचसः । यविष्ठ । मंहिष्ठस्य । प्रभृतस्य । स्वधावः । पीयति । त्वः । अनु । त्वः । गृणाति । वन्दारुः । ते । तन्वम् । वन्दे । अग्ने ॥bodha | me | asya | vacasaḥ | yaviṣṭha | maṃhiṣṭhasya | pra-bhṛtasya | svadhāvaḥ | pīyati | tvaḥ | anu | tvaḥ | gṛṇāti | vandāruḥ | te | tanvam | vande | agne