Sukta 1.147
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः । उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥
क॒था ते॑ अग्ने शु॒चय॑न्त आ॒योर्द॑दा॒शुर्वाजे॑भिराशुषा॒णाः । उ॒भे यत्तो॒के तन॑ये॒ दधा॑ना ऋ॒तस्य॒ साम॑न्र॒णय॑न्त दे॒वाः ॥
kathā́ te agne śucáyanta āyór dadāśúr vājébhir āśuṣāṇā́ḥ | ubhé yát tókē tánaye dádhānā ṛtásya sā́man raṇáyanta devā́ḥ ||
How do they—purifying themselves—give to you, O Agni, and press forward with plenitudes of force? When they establish both the child and the offspring, the gods make the chant of ṛta resound.
क॒था । ते॒ । अ॒ग्ने॒ । शु॒चय॑न्तः । आ॒योः । द॒दा॒शुः । वाजे॑भिः । आ॒शु॒षा॒णाः । उ॒भे इति॑ । यत् । तो॒के इति॑ । तन॑ये । दधा॑नाः । ऋ॒तस्य॑ । साम॑न् । र॒णय॑न्त । दे॒वाः ॥कथा । ते । अग्ने । शुचयन्तः । आयोः । ददाशुः । वाजेभिः । आशुषाणाः । उभे इति । यत् । तोके इति । तनये । दधानाः । ऋतस्य । सामन् । रणयन्त । देवाः ॥kathā | te | agne | śucayantaḥ | āyoḥ | dadāśuḥ | vājebhiḥ | āśuṣāṇāḥ | ubhe iti | yat | toke iti | tanaye | dadhānāḥ | ṛtasya | sāman | raṇayanta | devāḥ