Sukta 1.146
धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् । सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥
धीरा॑सः प॒दं क॒वयो॑ नयन्ति॒ नाना॑ हृ॒दा रक्ष॑माणा अजु॒र्यम् । सिषा॑सन्त॒: पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे॑भ्यो अभव॒त्सूर्यो॒ नॄन् ॥
dhīrā́saḥ padáṃ kaváyo nayanti nā́nā hṛdā́ rákṣamāṇā ajúryam | síṣāsantaḥ páry apaśyanta síndhum āvír ebhyo abhavat sū́ryo nṝ́n ||
The steadfast seers lead to the true step, guarding the unaging power with hearts that differ in their workings. Seeking, they looked around and beheld the River; then to them the Sun became manifest for men.
धीरा॑सः । प॒दम् । क॒वयः॑ । न॒य॒न्ति॒ । नाना॑ । हृ॒दा । रक्ष॑माणाः । अ॒जु॒र्यम् । सिसा॑सन्तः । परि॑ । अ॒प॒श्य॒न्त॒ । सिन्धु॑म् । आ॒विः । ए॒भ्यः॒ । अ॒भ॒व॒त् । सूर्यः॑ । नॄन् ॥धीरासः । पदम् । कवयः । नयन्ति । नाना । हृदा । रक्षमाणाः । अजुर्यम् । सिसासन्तः । परि । अपश्यन्त । सिन्धुम् । आविः । एभ्यः । अभवत् । सूर्यः । नॄन् ॥dhīrāsaḥ | padam | kavayaḥ | nayanti | nānā | hṛdā | rakṣamāṇāḥ | ajuryam | sisāsantaḥ | pari | apaśyanta | sindhum | āviḥ | ebhyaḥ | abhavat | sūryaḥ | nṝn