Sukta 1.146
दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे । पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥
दि॒दृ॒क्षेण्य॒: परि॒ काष्ठा॑सु॒ जेन्य॑ ई॒ळेन्यो॑ म॒हो अर्भा॑य जी॒वसे॑ । पु॒रु॒त्रा यदभ॑व॒त्सूरहै॑भ्यो॒ गर्भे॑भ्यो म॒घवा॑ वि॒श्वद॑र्शतः ॥
didṛkṣeṇyáḥ pári kā́ṣṭhāsu jényá īḷényo mahó árbhāya jīváse | puru-trā́ yád abhavat sū́r-ahaibhyo gárbhebhyo maghávā viśvá-darśataḥ ||
Worthy to be seen, he moves around in the pieces of wood, noble and adorable, for the child’s life in the Vast. When he came to be in many places from those sun-slaying wombs, the bountiful one became visible to all.
दि॒दृ॒क्षेण्यः॑ । परि॑ । काष्ठा॑सु । जेन्यः॑ । ई॒ळेन्यः॑ । म॒हः । अर्भा॑य । जी॒वसे॑ । पु॒रु॒ऽत्रा । यत् । अभ॑वत् । सूः । अह॑ । ए॒भ्यः॒ । गर्भे॑भ्यः । म॒घऽवा॑ । वि॒श्वऽद॑र्शतः ॥दिदृक्षेण्यः । परि । काष्ठासु । जेन्यः । ईळेन्यः । महः । अर्भाय । जीवसे । पुरुत्रा । यत् । अभवत् । सूः । अह । एभ्यः । गर्भेभ्यः । मघवा । विश्वदर्शतः ॥didṛkṣeṇyaḥ | pari | kāṣṭhāsu | jenyaḥ | īḷenyaḥ | mahaḥ | arbhāya | jīvase | puru-trā | yat | abhavat | sūḥ | aha | ebhyaḥ | garbhebhyaḥ | magha-vā | viśva-darśataḥ