Sukta 1.146
समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके । अनपवृज्याँ अध्वनो मिमाने विश्वान्केताँ अधि महो दधाने ॥
स॒मा॒नं व॒त्सम॒भि सं॒चर॑न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके॑ । अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा॑ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा॑ने ॥
samānáṃ vátsam abhí sáṃcarantī víṣvag dhenū́ ví carataḥ suméke | anapa-vṛ́jyāṃ ádhvano mimāné víśvān ketā́ṃ ádhi mahó dadhāné ||
Two fostering powers move about one common calf; they range widely, well-paired. Measuring the path that cannot be turned aside, they set everywhere the signs of the Vast.
स॒मा॒नम् । व॒त्सम् । अ॒भि । स॒ञ्चर॑न्ती॒ इति॑ स॒म्ऽचर॑न्ती । विष्व॑क् । धे॒नू इति॑ । वि । च॒र॒तः॒ । सु॒मेक्के॒ इति॑ सु॒ऽमेके॑ । अ॒न॒प॒ऽवृ॒ज्यान् । अध्व॑नः । मिमा॑ने॒ इति॑ । विश्वा॑न् । केता॑न् । अधि॑ । म॒हः । दधा॑ने॒ इति॑ ॥समानम् । वत्सम् । अभि । सञ्चरन्ती इति सम्चरन्ती । विष्वक् । धेनू इति । वि । चरतः । सुमेक्के इति सुमेके । अनपवृज्यान् । अध्वनः । मिमाने इति । विश्वान् । केतान् । अधि । महः । दधाने इति ॥samānam | vatsam | abhi | sañcarantī itisam-carantī | viṣvak | dhenū iti | vi | carataḥ | sumeke itisu-meke | anapa-vṛjyān | adhvanaḥ | mimāneiti | viśvān | ketān | adhi | mahaḥ | dadhāneiti