Sukta 1.146
उक्षा महाँ अभि ववक्ष एने अजरस्तस्थावितऊतिॠष्वः । उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥
उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ॑तिॠ॒ष्वः । उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ॑ रि॒हन्त्यूधो॑ अरु॒षासो॑ अस्य ॥
ukṣā́ mahā́ṃ abhí vavakṣe ené 'járas tasthāvi-tá-ūtī ṛ́ṣvaḥ | urvyā́ḥ padó ní dadhāti sā́nau rihánty ū́dho aruṣā́so asya ||
The great Bull swells mightily with these; ageless, he stands, high, with his supporting powers. On the summit he sets the wide step; his ruddy powers lick the udder—drawing the nourishing essence.
उ॒क्षा । म॒हान् । अ॒भि । व॒व॒क्षे॒ । ए॒ने॒ इति॑ । अ॒जरः॑ । त॒स्थौ॒ । इ॒तःऽऊ॑तिः । ऋ॒ष्वः । उ॒र्व्याः । प॒दः । नि । द॒धा॒ति॒ । सानौ॑ । रि॒हन्ति॑ । ऊधः॑ । अ॒रु॒षासः॑ । अ॒स्य॒ ॥उक्षा । महान् । अभि । ववक्षे । एने इति । अजरः । तस्थौ । इतःऊतिः । ऋष्वः । उर्व्याः । पदः । नि । दधाति । सानौ । रिहन्ति । ऊधः । अरुषासः । अस्य ॥ukṣā | mahān | abhi | vavakṣe | eneiti | ajaraḥ | tasthau | itaḥ-ūtiḥ | ṛṣvaḥ | urvyāḥ | padaḥ | ni | dadhāti | sānau | rihanti | ūdhaḥ | aruṣāsaḥ | asya