Sukta 1.146
त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे । निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥
त्रि॒मू॒र्धानं॑ स॒प्तर॑श्मिं गृणी॒षेऽनू॑नम॒ग्निं पि॒त्रोरु॒पस्थे॑ । नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा॑ दि॒वो रो॑च॒नाप॑प्रि॒वांस॑म् ॥
tri-mūrdhā́naṃ sapta-raśmíṃ gṛṇīṣé 'nū́nam agníṃ pitrór upá-sthe | ni-sattám asya cárato dhruvásya víśvā divó rocanā́ āpapri-vā́ṃsam ||
I hymn Agni, three-headed, seven-rayed, unimpaired, seated in the lap of the two parents. Firmly seated, he moves in the stable foundation, filling all the luminous regions of heaven.
त्रि॒ऽमू॒र्धान॑म् । स॒प्तऽर॑श्मिम् । गृ॒णी॒षे॒ । अनू॑नम् । अ॒ग्निम् । पि॒त्रोः । उ॒पऽस्थे॑ । नि॒ऽस॒त्तम् । अ॒स्य॒ । चर॑तः । ध्रु॒वस्य॑ । विश्वा॑ । दि॒वः । रो॒च॒ना । आ॒प॒प्रि॒ऽवांस॑म् ॥त्रिमूर्धानम् । सप्तरश्मिम् । गृणीषे । अनूनम् । अग्निम् । पित्रोः । उपस्थे । निसत्तम् । अस्य । चरतः । ध्रुवस्य । विश्वा । दिवः । रोचना । आपप्रिवांसम् ॥tri-mūrdhānam | sapta-raśmim | gṛṇīṣe | anūnam | agnim | pitroḥ | upa-sthe | ni-sattam | asya | carataḥ | dhruvasya | viśvā | divaḥ | rocanā | āpapri-vāṃsam