Sukta 1.140
अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः । वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥
अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभि॒: सत्व॑भिर्याति॒ वि ज्रय॑: । वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी॑ सचते वर्त॒नीरह॑ ॥
adhīvāsáṃ pári mātúḥ ríhann áha tuvigrébhíḥ sátvabhir yāti ví jráyaḥ | váyo dádhat patváte réríhat sádā́ ánu śyénī sacate vartanī́r áha ||
He moves, licking around the enveloping robe of the Mother, driven by mighty graspings and strong impulsions; the swift one goes forth in widening courses. He puts on wings for the flyer; ever licking upward, the falcon-power follows the paths.
अ॒धी॒वा॒सम् । परि॑ । मा॒तुः । रि॒हन् । अह॑ । तु॒वि॒ऽग्रेभिः । सत्व॑ऽभिः । या॒ति॒ । वि । ज्रयः॑ । वयः॑ । दध॑त् । प॒त्ऽवते॑ । रेरि॑हत् । सदा॑ । अनु॑ । श्येनी॑ । स॒च॒ते॒ । व॒र्त॒निः । अह॑ ॥अधीवासम् । परि । मातुः । रिहन् । अह । तुविग्रेभिः । सत्वभिः । याति । वि । ज्रयः । वयः । दधत् । पत्वते । रेरिहत् । सदा । अनु । श्येनी । सचते । वर्तनिः । अह ॥adhīvāsam | pari | mātuḥ | rihan | aha | tuvi-grebhiḥ | satva-bhiḥ | yāti | vi | jrayaḥ | vayaḥ | dadhat | pat-vate | rerihat | sadā | anu | śyenī | sacate | vartaniḥ | aha