Sukta 1.140
तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः । तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥
तम॒ग्रुव॑: के॒शिनी॒: सं हि रे॑भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषी॒: प्रायवे॒ पुन॑: । तासां॑ ज॒रां प्र॑मु॒ञ्चन्ने॑ति॒ नान॑द॒दसुं॒ परं॑ ज॒नय॑ञ्जी॒वमस्तृ॑तम् ॥
tám agrúvaḥ keśinīḥ sáṃ hí rebhir ūrdhvā́stasthur mamruṣī́ḥ prá āyáve púnaḥ | tāsā́ṃ jarā́ṃ prá-muñcann éti nā́nadad asúṃ páram janáyan jīváṃ astṛ́tam ||
Those radiant, long-haired forces of the Light, gathering with their hymning powers, stand upright; though they had fallen into exhaustion, they move forward again toward the coming of Life. Casting off their ageing limitation, he advances with a cry of victory, bringing to birth the supreme Breath and establishing an uninjured, deathless livingness.
तम् । अ॒ग्रुवः॑ । के॒शिनीः॑ । सम् । हि । रे॒भि॒रे । ऊ॒र्ध्वाः । त॒स्थुः॒ । म॒म्रुषीः॑ । प्र । आ॒यवे॑ । पुन॒रिति॑ । तासा॑म् । ज॒राम् । प्र॑ऽमु॒ञ्चन् । ए॒ति॒ । नान॑दत् । असु॑म् । पर॑म् । ज॒नय॑न् । जी॒वम् । अस्तृ॑तम् ॥तम् । अग्रुवः । केशिनीः । सम् । हि । रेभिरे । ऊर्ध्वाः । तस्थुः । मम्रुषीः । प्र । आयवे । पुनरिति । तासाम् । जराम् । प्रमुञ्चन् । एति । नानदत् । असुम् । परम् । जनयन् । जीवम् । अस्तृतम् ॥tam | agnuvaḥ | keśinīḥ | sam | hi | rebhire | ūrdhvāḥ | tasthuḥ | mamruṣīḥ | pra | āyave | punariti | tāsām | jarām | pra-muñcan | eti | nānadat | asum | param | janayan | jīvam | astṛtam