Sukta 1.140
अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः । अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥
अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी॑वान्वृष॒भो दमू॑नाः । अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे॑व यु॒त्सु प॑रि॒जर्भु॑राणः ॥
asmā́kam agne maghávat-su dīdihi ádha śvasī́vān vṛṣabhó damū́nāḥ | avāsyā́ śíśumatīr adīder vármeva yút-su parijárbhurāṇaḥ ||
Shine for us, O Agni, among the powers of plenitude; then, breathing mightily, bull of the home, blaze forth. Kindle below the child-bearing energies; like armour in battles you encompass and protect, pressing forward on every side.
अ॒स्माक॑म् । अ॒ग्ने॒ । म॒घव॑त्ऽसु । दी॒दि॒हि॒ । अध॑ । श्वसी॑वान् । वृ॒ष॒भः । दमू॑नाः । अ॒व॒ऽअस्य॑ । शिशु॑ऽमतीः । अ॒दी॒देः॒ । वर्म॑ऽइव । यु॒त्ऽसु । प॒रि॒ऽजर्भु॑राणः ॥अस्माकम् । अग्ने । मघवत्सु । दीदिहि । अध । श्वसीवान् । वृषभः । दमूनाः । अवअस्य । शिशुमतीः । अदीदेः । वर्मइव । युत्सु । परिजर्भुराणः ॥asmākam | agne | maghavat-su | dīdihi | adha | śvasīvān | vṛṣabhaḥ | damūnāḥ | ava-asya | śiśu-matīḥ | adīdeḥ | varma-iva | yut-su | pari-jarbhurāṇaḥ