Sukta 1.140
स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये । पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥
स सं॒स्तिरो॑ वि॒ष्टिर॒: सं गृ॑भायति जा॒नन्ने॒व जा॑न॒तीर्नित्य॒ आ श॑ये । पुन॑र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्प॑: पि॒त्रोः कृ॑ण्वते॒ सचा॑ ॥
sa saṃ-stiro vi-ṣṭiraḥ saṃ gṛbhāyati jānan eva jānatīr nitya ā śaye | punaḥ vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā ||
He, firmly spread and widely extended, gathers them together; knowing, he lies with the knowing ones, ever. Again they grow, they return to the divine; together they fashion another form of the two Parents.
सः । स॒म्ऽस्तिरः॑ । वि॒ऽष्टिरः॑ । सम् । गृ॒भा॒य॒ति॒ । जा॒नन् । ए॒व । जा॒न॒तीः । नित्यः॑ । आ । श॒ये॒ । पुनः॑ । व॒र्ध॒न्ते॒ । अपि॑ । य॒न्ति॒ । दे॒व्य॑म् । अ॒न्यत् । वर्पः॑ । पि॒त्रोः । कृ॒ण्व॒ते॒ । सचा॑ ॥सः । सम्स्तिरः । विष्टिरः । सम् । गृभायति । जानन् । एव । जानतीः । नित्यः । आ । शये । पुनः । वर्धन्ते । अपि । यन्ति । देव्यम् । अन्यत् । वर्पः । पित्रोः । कृण्वते । सचा ॥saḥ | sam-stiraḥ | vi-ṣṭiraḥ | sam | gṛbhāyati | jānan | eva | jānatīḥ | nityaḥ | ā | śaye | punaḥ | vardhante | api | yanti | devyam | anyat | varpaḥ | pitroḥ | kṛṇvate | sacā